(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.118. अध्यायः 118
Mahabharata - Bhishma Parva - Chapter Topics
भीष्मपराक्रमवर्णनम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-118-0x(4238)(44290)
असंव्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु ।
ब्रह्मलोकपराः सर्वे समपद्यन्त भारत ॥ 6-118-1(44291)
च ह्यनीकमनीकेषु समसञ्जत संकले ।
रथा न रथिभिः सार्धं पादाता न पदातिभिः ॥ 6-118-2(44292)
अश्वा नाश्वैरयुध्यन्त गजा न गजयोधिभिः ।
उन्मत्तवन्महाराज युध्यन्ते तत्र भारत ॥ 6-118-3(44293)
महान्व्यतिकरो रौद्रः सेनयोः समपद्यत ।
नरनागगणेष्वेवं विकीर्णेषु च सर्वशः ॥ 6-118-4(44294)
क्षये तस्मिन्महारौद्रे निर्विशेषमजायत ।
ततः शल्यः कृपश्चैव चित्रसेनश्च भारत ॥ 6-118-5(44295)
दुःशासनो विकर्णश्च रथानास्थाय भास्वरान् ।
पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् ॥ 6-118-6(44296)
सा वध्यमाना समरे पाण्डुसेना महात्मभिः ।
त्रातारं नाध्यगच्छद्वै मञ्जमानेव नौर्जंले ॥ 6-118-7(44297)
यथा हि शैशिरः कालो गवां मर्माणि कृन्तति।
तथा पाण्डुसुतानां वै भीष्मो मर्माणि कृन्तति 6-118-8(44298)
तथैव तव सैन्यस्य पार्थेन च महात्मना।
नवमेघप्रतीकाशाः पातिता बहुधा गजाः ॥ 6-118-9(44299)
मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः ।
इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः ॥ 6-118-10(44300)
पेतुरार्तस्वरं घोरं कृत्वा तत्र महागजाः ।
आनद्धाभरणैः कायैर्निहतानां महात्मनाम् ॥ 6-118-11(44301)
छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः । 6-118-12bतस्मिन्नेव महाराज महावीरवरक्षये ॥ 6-118-12(44302)
भीष्मे च युधि विक्रान्ते पाण्डवे च धनञ्जये ।
ते पराक्रान्तमालोक्य राजन्युधि पितामहम् ॥ 6-118-13(44303)
अभ्यवर्तन्त ते पुत्राः सर्वे सैन्यपुरस्कृताः ।
इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम् ॥ 6-118-14(44304)
पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षये ।
पाण्डवापि महाराज स्मरन्तो विविधान्बहून् ॥ 6-118-15(44305)
क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप ।
भयं त्यक्त्वा रणे शूरा ब्रह्मलोकाय तत्पराः ॥ 6-118-16(44306)
तावकांस्तव पुत्रांश्च योधयन्ति प्रहृष्टवत्।
सेनापतिस्तु समरे प्राह सेनां महारथः ॥ 6-118-17(44307)
अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह ।
सेनापतिवचः श्रुत्वा सोमकाः सृञ्जयाश्च ते ॥ 6-118-18(44308)
अभ्यद्रवन्त गाङ्गेयं शरवृष्ट्या समाहताः ।
वध्यमानस्ततो राजन्पिता शान्तनवस्तव ॥ 6-118-19(44309)
अमर्षवशमापन्नो योधयामास सृञ्जयान्।
तस्य कीर्तिमतस्तात पुरा रामेण धीमता॥ 6-118-20(44310)
संप्रदत्ताऽस्त्रशिक्षा वै परानीकविनाशनी ।
स तां विद्यामधिष्ठाय कुर्वन्तपरबलक्षयम् ॥ 6-118-21(44311)
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः ।
भीष्मो दशसहस्राणि जघान परवीरहा ॥ 6-118-22(44312)
तस्मिंस्तु दशमे प्राप्ते दिवसे भरतर्षभ ।
एको भीष्मो हि मत्स्येषु पाञ्चालेषु च संयुगे ॥ 6-118-23(44313)
गजाश्वममितं हत्वा हत्वा सप्त महारथान् ।
हत्वा पञ्चसहस्राणि रथानां प्रतिपामहः ॥ 6-118-24(44314)
नराणां च महायुद्धे सहस्राणि चतुर्दश ।
दन्तिनां च सहस्राणि हयानामयुतं पुनः ॥ 6-118-25(44315)
शिक्षबलेन न्यहनत्पिता तव विशांपते ।
ततः सर्वमहीपानां क्षपयित्वा वरूथिनीम् ॥ 6-118-26(44316)
विराटस्य प्रियो भ्राता शतानीको निपातितः।
शतानीकं च समरे हत्वा भीष्मः प्रतापवान् ॥ 6-118-27(44317)
सहस्राणि महाराज राज्ञां भल्लैरपातयत्।
उद्विग्नाः समरे योधा विक्रोशन्ति धनञ्जयम् ॥ 6-118-28(44318)
ये च केचन पार्थानामभियाता धनञ्जयम् ।
राजानो भीष्ममासाद्य गतास्ते यमसादनम् ॥ 6-118-29(44319)
किरन्दश दिशो भीष्मः शरजालैः समन्ततः ।
अतीत्य सेनां पार्थानामवतस्थे चमूमुखे ॥ 6-118-30(44320)
स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि।
सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः ॥ 6-118-31(44321)
न चैनं पार्थिवाः केचिच्छक्ता राजन्निरीक्षितुम् ।
मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि ॥ 6-118-32(44322)
यथा दैत्यचमूं शक्रस्तापयामास संयुगे ।
तथा भीष्मः पाण्डवेयांस्तापयामास भारत ॥ 6-118-33(44323)
तथा चैनं पराक्रान्तमालोक्य मधुसूदनः।
उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम् ॥ 6-118-34(44324)
एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः ।
सन्निहत्य बलादेनं विजयस्ते भविष्यति ॥ 6-118-35(44325)
बलात्संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः ।
न हि भीष्मशरानन्यः सोढुमुत्सहते विभो ॥ 6-118-36(44326)
ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः ।
सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः ॥ 6-118-37(44327)
स चापि कुरुमुख्यानामृषभः पाण्डवेरितान्।
सरव्रतैः शरव्रातान्बहुधा विदुधाव तान् ॥ 6-118-38(44328)
ततः पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान् ।
पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ 6-118-39(44329)
यमौ च चेकितानश्च केकयाः पञ्च चैव ह ।
सात्यकिश्च महाबाहुः सौभद्रोऽथ घटोत्कचः ॥ 6-118-40(44330)
द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् ।
विराटश्च महाराज पाण्डवेया महाबलाः ॥ 6-118-41(44331)
एते चान्ये च बहवः पीडिता भीष्मसायकैः ।
समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे ॥ 6-118-42(44332)
ततः शिखण्डी वेगेन प्रगृह्य परमायुधम्।
भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना ॥ 6-118-43(44333)
ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित् ।
भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः ॥ 6-118-44(44334)
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः ।
विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ 6-118-45(44335)
दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना ।
अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः ॥ 6-118-46(44336)
ददृशुः समरे भीष्मं समुद्यतमहायुधम् ।
ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः ॥ 6-118-47(44337)
बहुधा भीष्ममानर्च्छुर्मार्गणैः क्षतमार्गणैः ।
विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः ॥ 6-118-48(44338)
पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् ।
चक्रे शरविघातं च क्रीडन्निव पितामहः ॥ 6-118-49(44339)
नाभिसंधत्त पाञ्चाल्ये स्मयमानो मुहुर्मुहुः ।
स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिने ॥ 6-118-50(44340)
जघान द्रुपदानीके रथान्सप्त महारथः ।
ततः किलकिलाशब्दः क्षणेन समभूत्तदा ॥ 6-118-51(44341)
मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम् ।
ते नराश्वरथव्रातैर्मार्गणैश्च परंतप ॥ 6-118-52(44342)
तमेकं छादयामासुर्मेघा इव दिवाकरम् ।
भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून् ॥ 6-118-53(44343)
ततस्तस्य च तेषां च युद्धे देवासुरोपमे ।
किरीटी भीष्ममानर्च्छ पुरस्कृत्य शिखण्डिनम् ॥ ॥ 6-118-54(44344)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे अष्टादशाधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-118-1 अनिवर्तिषु इति झo पाठः ॥ 6-118-4 व्यतिकरः क्षोभः ॥ 6-118-49 अदीनात्मा अक्षीणस्वभावः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.